CG Board Class 11 Sanskrit Solutions | NCERT कक्षा 11 संस्कृत (भास्वती) (2026-27)
Complete solutions for CG Board Class 11 Sanskrit Chapter 6: भव्यः सत्याग्रहाश्रमः strictly following the prescribed NCERT कक्षा 11 संस्कृत (भास्वती) syllabus.
📖 Textbook Pages (NCERT / CG Board 2026-27)


✍️ Chapter 6 Exercise Solutions: भव्यः सत्याग्रहाश्रमः
षष्ठः पाठः — भव्यः सत्याग्रहाश्रमः (अभ्यासः)
1. एकपदेन उत्तरत—
(क) सत्याग्रहाश्रमः कस्याः नद्याः तीरे स्थापितः?
(ख) अस्य पाठस्य रचयित्री का अस्ति?
(ग) महात्मा गान्धी कैः सह आश्रमं स्थापयामास?
(घ) सर्वबलेभ्यः किम् अतिरिच्यते?
उत्तरम्: (क) साबरमत्याः (सबर्मत्याः)। (ख) श्रीमती क्षमारावः। (ग) अनुयायिकैः (सानुयात्रिकः)। (घ) सत्यम्।
2. पूर्णवाक्येन उत्तरत—
(क) सत्याग्रहाश्रमस्य नव व्रतानि कानि सन्ति?
(ख) महात्मा गान्धी आश्रमवासिषु कीदृशः आसीत्?
(ग) ये धर्मेण चरन्ति तेषां किं भवति?
उत्तरम्: (क) अहिंसा, सत्यम्, अस्तेयम्, ब्रह्मचर्यम्, अपरिग्रहः, स्वदेशवस्तुनिष्ठा, निर्भीतिः, रुचिसंयमः, अन्त्यजानां समुद्धारश्च एतानि नव व्रतानि सन्ति।
(ख) महात्मा गान्धी निर्ममः, नित्यसत्त्वस्थः, मिताशी, सुस्मिताननः, सुकलत्रः, शिशुप्रेमी, आश्रमवासिनां च पिता इव आसीत्।
(ग) ये प्रजाः वा राज्यशासकाः धर्मेण चरन्ति, तेषां समृद्धिः जायते, अन्येषां तु क्षयः ध्रुवः भवति।
3. सन्धिविच्छेदं कुरुत—
सत्यमेवातिरिच्यते, ब्रह्मचर्यापरिग्रहौ, पितेवाश्रमवासिनाम्, अन्त्यजानां समुद्धारः।
उत्तरम्: सत्यमेवातिरिच्यते = सत्यम् + एव + अतिरिच्यते।
ब्रह्मचर्यापरिग्रहौ = ब्रह्मचर्य + अपरिग्रहौ।
पितेवाश्रमवासिनाम् = पिता + इव + आश्रमवासिनाम्।
समुद्धारः = सम् + उद्धारः।