DAV Class 8 Sanskrit Chapter 2 वसुघैव कुठुम्बकम्‌ Solutions

DAV Class 8 Sanskrit Ch 2 Solutions – वसुधैव कुटुम्बकम्

1. पाठं पठित्वा बदन्तु लिखन्तु च ‘शुद्धम्‌’ अथवा “अशुद्धम्‌’-

i. काकः चटका च मित्रे न स्तः। _________i. अशुद्धम्
ii. तौ एकस्मिन् गृहे एकं नरम् अपश्यताम्। _________ii. अशुद्धम्
iii. काकस्य गृहं मृत्तिकायाः आसीत्। _________iii. शुद्धम्
iv. चटका काकस्य सहर्ष स्वागतं करोति। _________iv. शुद्धम्
v. उभौ मिलित्वा सुखेन वसतः। _________v. शुद्धम्
2. मज्जूषायाः प्रदत्तपदैः रिक्तस्थानानि पूरयन्तु-
i. एष: _______ अस्ति।i. काक:
ii. चटका काकस्य _______ अस्ति।ii. मित्रम्
iii. काक: वृक्षे _______ सुन्दरं गृहं निर्मितवान्।iii. मृत्तिकया
iv. वर्षाकाले _______ गृहं नष्टम् अभवत्।iv. काकस्य
v. चटका काकम् _______ भोजनं कर्तुं कथयति।v. आनन्देन
vi. काक: _______ भूत्वा भोजनं करोति।vi. लज्जित:

3. मज्जूषाया: उचितं विशेष्यपदं चित्वा लिखन्तु-

उत्तराणि :
i. भीषणे _______i. ग्रीष्मकाले
ii. अभिमानी _______ii. काक:
iii. खिन्ना _______iii. चटका
iv. नवीनम् _______iv. गृहम्
v. एकस्मिन् _______v. वृक्षे
4. एतेषां प्रश्नानाम् उत्तराणि एकपदेन वदन्तु लिखन्तु च-
i. काकः चटका च कुत्र सुन्दरं गृहम् अपश्यताम् ?
ii. चटका कै: स्वगृहं निर्मितवती?
iii. का खिन्ना आसीत्?
iv. चटका काकं किं त्यक्तुं कथयति?
उत्तराणि
i. वृक्षे
ii. तृणै:
iii. चटका
iv. चिन्ताम्
v. अपश्यताम्

5. एतेषां प्रश्नानाम् उत्तराणि पूर्णवाक्येन वदन्तु लिखन्तु च-

प्रश्न i.
सुन्दरं गृहं दृष्ट्वा काक: चटका च किम् अचिन्तयताम्?
उत्तरम् :
सुन्दरं गृहं दृष्ट्वा काक: चटका च चिन्तयताम्- ” किमर्थ न आवयो: अपि एतादृशं सुन्दर गृहं भवेत्। अतः अधुना आषाम् अपि एतादृशं सुन्दरं गृहं रचयिष्यावः।”

प्रश्न ii.
चटका काकस्य गृहं गत्वा कि कथयति?
उत्तरम् :
चटका काकस्य गृहं गत्वा कथयति-” भ्रातः! अस्मिन् भीषणे ग्रीष्मकाले मम गृहं नष्टम् अभवत्। सर्वत्र उष्णः अस्ति। मह्यं स्वगृहे शरणं यच्छ।”

प्रश्न iii.
अभिमानी काक: चटकां किम् अकथयत्?
उत्तरम् :
अभिमानी काक: चटकाम् अकथयत्-गच्छ; गच्छ। अत्र स्थानं नास्ति। कुत्रचित् अन्यत्र गच्छ। तव गृहं नष्टम्। अहं किं करवाणि?

प्रश्न iv.
काक: लज्जितः भूत्वा कि चिन्तयति?
उत्तरम् :
काक: लज्जितः भूत्वा चिन्तयति-“अहं तु स्वार्थी अस्मि परम् एषा उदारहृदया अस्ति।”

प्रश्न v.
वर्षाकालात् अनन्तरं किम् अभवत्?
उत्तरम् :
वर्षाकालात् अनन्तरं काक: पुन: नवीनगृहस्य निर्माणं करोति चटका अपि साहाय्य करोति। उभौ मिलित्वा सुखेन वसतः।

6. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुर्वन्तु-

प्रश्न i.
तौ स्वनिवासम् अगच्छताम्।
उत्तरम् :
तौ कुत्र अगच्छताम्?

प्रश्न ii.
एकदा ग्रीष्मकाले सर्वत्र शुष्कम् अभवत्।
उत्तरम् :
एकदा कदा सर्वत्र शुष्कम् अभवत्?

प्रश्न iii.
चटकायाः गृहम् अपि नष्टम् अभवत्।
उत्तरम् :
कस्या: गृहम् अपि नष्टम् अभवत्?

प्रश्न iv.
चटका काकं कथयति।
उत्तरम् :
चटका कम् कथयति?

प्रश्न v.
काक: नवीनगृहस्य निर्माणं करोति?
उत्तरम् :
काक: कस्य निर्माणं करोति?

प्रश्न i.
ग्रीष्मकाले चटकालाः तृणै: निर्मितं गृहं नष्टम् अभवत्।
उत्तरम् :
काकः चटका च द्वे मित्रे आस्ताम्।

प्रश्न ii.
उदारहदया चटका काकस्य साहाय्य करोति येन काकः लज्जितः अभवत्।
उत्तरम् :
ग्रोष्मकाले चटकाया: तृणै: निर्मित गृह नष्टम् अभवत्।

प्रश्न iii.
वर्षाकाले काकस्य मृत्किायाः गृहं नष्टम् अभवत्।
उत्तरम् :
अभिमानी काक: चटकायै स्वगृहे शरणं न अयच्छत्।

प्रश्न iv.
काक: चटका च द्वे मित्रे आस्ताम्।
उत्तरम् :
वर्षाकाले काकस्य मृत्तिकाया: गृहं नष्टम् अभवत्।

प्रश्न v.
अभिमानी काक: चटकायै स्वगृहे शरणं न अपच्छत्।
उत्तरम् :
उदारहदया चटका काकस्य साहाय्यं करोति येन काक: लज्जितः अभवत्।

मूल्यात्मक: प्रश्न:

प्रश्न 1.
“अमन: देवांशः च द्वे मित्रे स्तः। देवांशः पठने कुशल: परन्तु अमनस्य रुचि: पठने नास्ति अतः स: परीक्षायां सम्यक् प्रदर्शन न करोति।”
यदि भवान्भवती देवांशस्य स्थाने भवेत् तदा अमनस्य सहायतां कथं कुर्यात्?
उत्तरम् :
यदि अहं देवांशस्य स्थाने भवेयम् तदा मित्रस्य अमनस्य पठने अवश्यमेव सहायताम् अकुर्याम्। अहं तं स्वात्मना सह पाठयेयम्। समये तस्य निरीक्षणमपि कुर्याम्। तम् उपवेश्य आत्मना सह लिखेयम् अपि। प्रश्नपत्रं लेखनेन यापि कठिनता आगच्छति तामपि चर्चया माध्यमेन दूरी कुर्याम्।

प्रश्न 2.
“अद्यत्वे प्राकृतिक-आपदाकारणात् महती क्षतिः भवति स्म। तस्मिन् समये सर्वकारः जनाः च यथायोग्यं सहायताम् कुर्वन्ति।”
यदि भवतः समीपे अपि कदाचित् एतादृशी आपदा उत्पन्ना भविष्यति तर्हिं भवान्भवती कथं जनानां सहायतां करिष्यति?
उत्तरम् यदि मम समीपे अपि कदाचित् एतादृशी आपदा उत्पन्ना भविष्यति तर्हि अहम् भोजनेन, वस्त्रेण, खाद्य-वस्तुभिः सह जनानां सहायतां करिष्यामि। तान् वासयितुं च प्रयत्नं करिष्यामि। तेषाम् समस्यानां समाधान कृत्वा तान् सुखीः कर्तु प्रयत्नं करिष्यामि।

गतिविधि:

1. छात्रा: कथायाः भावम् आधृत्य अन्यां कथाम् अन्विष्य सचित्र भित्तिपत्रनिर्माणं करिष्यन्ति।
उत्तरम् :
विद्यार्थी स्वयं करें।

2. भवान्/भवती स्वमित्राणां नामानि लिख्चिा तेषां रुचिम् अपि लिखतु-

व्याकरणम् :

अभ्यास:

1. मज्जूषायाः उचितपदानि चित्वा वाक्यानि पूरयन्तु-

प्रश्न i.
छात्र: पाठं (पूर्वक्रिया) पठति, लेखं च (पश्चात् क्रिया) लिखति।
उत्तरम् :
छात्रः पाठं पठित्वा लेखं लिखति।

प्रश्न ii.
जनाः भ्रमन्ति, वदन्ति च।
उत्तरम् :
जनाः श्रमित्वा वदन्ति।

प्रश्न iii.
पिता कथयति, चलति च।
उत्तरम् :
पिता कथयित्वा चलति।

प्रश्न iv.
गजः चलति, खादति च।
उत्तरम् :
गजः चलित्वा खादति।

प्रश्न v.
शिशु: क्रीडति, जलं च पिबति।
उत्तरम् :
शिशुः क्रीडित्वा जलं पिबति।

प्रश्न vi.
बाला गच्छति, पाठं च पठति।
उत्तरम् :
बाला गत्वा पाठं पठति।

प्रश्न vii.
छात्रा नमति, कथां च कथयति।
उत्तरम् :
छात्रा नत्वा कथां कथयति।

प्रश्न viii.
नर्तक: नृत्यति, प्रसन्नः च भवति।
उत्तरम् :
नर्तक: नर्तित्वा प्रसन्नः भवति।

प्रश्न ix.
त्वं दुग्धं पिबसि, तत्र च क्रीडसि।
उत्तरम् :
त्वं दुर्धं पीत्वा तत्र क्रीडसि।

प्रश्न x.
अहं पश्यामि, कन्दुकेन च क्रीडामि।
उत्तरम् :
अहं दृष्ट्वा कन्दुकेन क्रीडामि।

प्रश्न xi.
ते नमन्ति, अत्र तिष्ठन्ति च।
उत्तरम् :
ते नत्वा अत्र तिष्ठन्ति।

अभ्यास:

1. ‘क्त्वा’ स्थाने ‘ल्यप्’ प्रत्ययस्य प्रयोगं कुरुत-

i. स: ईश्वरं नत्वा कार्य करोति।
स: ईश्वरं ________ (प्र + नम् + ल्यप्) कार्य करोति।
ii. स: हसित्वा कथयति।
स: ________ प्र + हस् + ल्यप् कथयात।
iii. स: दुष्कर्म त्यक्वा प्रसन्न: भवति।
स: दुष्कर्म ________ (परि + त्यज् + ल्यप्) प्रसन्नः भवति।
iv. सा कन्या प्रकृतिसौन्दर्य ईक्षित्वा प्रसीदति।
सा कन्या प्रकृतिसौन्द्यं ________ (निर् + ईक्ष् + ल्यप्) प्रसीदति।
v. कृपण: धनम् आप्वा प्रसीदति।
कृपण: धनम् ________ (प्र + आप् + ल्यप्) प्रसीदति।
उत्तराणि :
i. प्रणम्य
ii. प्रहस्य
iii. परित्यज्य
iv. निरीक्ष्य
v. प्राप्य

2. अक्षयः कथं जीवनं यापयति। अस्य दिनचर्यां निर्देशानुसारं ‘क्ता’ तथा ‘ल्यप्’ प्रत्यय-युक्तैः पदैः लिखत –

उत्तराणि :
अक्षयः प्रातः उत्थाय (उत् + स्था + स्यप्) प्रातर्विधिं कृत्वा (कृ + क्वा) उद्यान गत्वा (गम् + क्वा) व्यायामं करोति। व्यायामं कृत्वा (कृ + क्वा) प्रातराशं समाप्य (सम् + आप् + ल्यप्) विद्यालयं गच्छति। विद्यालये पठित्वा (पठ् + क्वा) गृहम् आगम्य (आ + गम् + ल्यप्) विश्रामं कृत्वा (कृ + क्त्वा) पुनः पठति। पठनस्य पश्चात् खेलितुम् उद्यानं गच्छति। उद्याने खेलित्वा (खेल् + क्वा) गृहं आगम्य (आ + गम् + ल्यप्) रात्रिभोजनं कृत्वा (कृ + क्त्वा) पुनः पठितुम् उपविशति। ततः स: शयनाय गच्छति। एषा अस्ति अक्षयस्य दिनचर्या।

1. रिक्तस्थानानि पूरयन्तु-

2. निर्देशानुसारं परिवर्तनं कृत्वा वाक्यानि पुनः लिखत-

उत्तराणि :
i. भवती किं करोति?
ii. यूयम् कुत्र गच्छथ?
iii. भवती किमर्थं धावति?
iv. त्वम् चित्र पश्यसि।
v. भवत्यौ कदा पठतः?

1. एष: काक: अस्ति।
एषा चटका अस्ति।
एते द्वे मित्रे स्तः।
एकदा इतस्ततः ररिभ्रम्य तौ एकस्मिन् वृक्षे निर्मितम् एकं सुन्दरं गृहम् अपश्यताम्।
सुन्दरं गृहं दृष्ट्वा तौ अचिन्तयताम्- “किमर्थं न आवयो: अपि एतादृशं सुन्दरं गृहं भवेत्! अतः अधुना आवाम् अपि एतादृशं सुन्दरं गृहं रचयिष्यावः।” इति चिन्तयित्वा स्वनिवासम् अगच्छताम्।

हिन्दी अनुवाद –
यह कौआ है।
यह चिड़िया है।
ये दोनों मित्र हैं।
एक बार इधर-उधर घूमकर उन दोनों ने एक वृक्ष पर बने हुए एक सुन्दर घर को देखा।
सुन्दर घर को देखकर उन दोनों ने सोचा-‘ क्यों नहीं, हम दोनों का भी ऐसा सुन्दर घर होना चाहिए। इसलिए अब हम दोनों भी ऐसा सुन्दर घर बनाएँगे।’ ऐसा सोचकर अपने निवास को चले गए।

शब्दार्था: – इतस्ततः-इधर-उधर। परिभ्रम्य-घूमकर। एतादृशं-इतना/ऐसा। रचयिष्याव:-बनाएँगे। चिन्तयित्वा-सोचकर।

2. काक: वृक्षे मृत्तिकया सुन्दर गृहं निर्मितवान्।
चटका तृणौ: स्वगृह निर्मितवती।
एकदा भीषणे ग्रीष्मकाले सर्वत्र शुष्कम् अभवत्। सर्वे दुःखिनः आसन्। चटकायाः गृहम् अपि नष्टम् अभवत्। सा खिन्ना आसीत्। सा चिन्तयति- “किं करोमि?”
परन्तु काकस्य गृह न नष्टम्। तत् तु मृत्तिकाया: आसीत्।
चटका चिन्तयित्वा काकस्य गृहं गच्छति।
चटका काकं कथयति- “भ्रातः। अस्मिन् भीषणे ग्रीष्मकाले मम गृहं नष्टम् अभवत्। सर्वत्र उष्णः अस्ति। मह्यं स्वगृहे शरणं यच्छ।”

हिन्दी अनुवाद –
कौए ने पेड़ पर मिट्टी से सुन्दर घर बनाया।
चिड़िया ने घास (तिनकों) से अपना घर बनाया।
एक बार भयानक गर्मी के समय में सब जगह सूखा पड़ गया। सभी दु:खी थे। चिड़िया का घर भी नष्ट हो गया। वह दुःखी थी। वह सोचती है-‘क्या करूँ?’
परन्तु कौए का घर नष्ट नहीं हुआ। वह तो मिट्टी का था।
चिड़िया सोचकर कौए के घर जाती है।
चिड़िया कौए से कहती है-“ है भाई! इस भयंकर गर्मी के समय में मेरा घर नष्ट हो गया है। सब ओर गर्मी है। मुझे अपने घर में शरण (जगह) दे दो।”

शब्दार्था: – मृत्तिकया-मिट्टी से। तृण्ण-तिनकों से। भीषणे-अत्यधिक। सर्वत्र-सब जगह। उष्ण:-गर्म/गर्मी।

3. काक: अभिमानी आसीत्। स: अकथयत्-गच्छ, गच्छ। अत्र स्थानं न अस्ति। कुत्रचित् अन्यत्र गच्छ। तव गृहं नष्टम्। अहं किं करवाणि?
तत् श्रुत्वा खिन्ना चटका गच्छति।
गच्छति काले ग्रीष्मकालः समाप्तः। वर्षा ऋतुः च आगच्छत्। सर्वत्र हरीतिमा आसीत्। चटका नवीनं गृहम् अरचयत्। तदैव सहसा अतिवृष्टि: अभवत्। काकस्य गृहं नष्ट अभवत्। खिन्न: काक: शरणार्थं चटकायाः समीपम अगच्छत्।

हिन्दी अनुवाद –
कौआ अहंकारी था। उसने कहा- “जा-जा। यहाँ जगह नहीं है। कहीं दूसरी जगह जा। तेरा घर नष्ट हो गया। मैं क्या करूँ।” उसे सुनकर दुःखी चिड़िया चली जाती है। समय बीतने पर गर्मी का समय बीत गया। और वर्षा ऋतु आ गई। सब और हरियाली थी। चिड़िया ने नया घर बनाया।
तभी अचानक बहुत बरसात हुई। कौए का घर नष्ट हो गया।
दुःखी कौआ शरण पाने के लिए चिड़िया के पास गया।

शब्दार्था: – कुत्रचित् अन्यत्न-कहीं और/किसी और जगह। खिन्ना-उदास। गच्छति काले-समय बीतने पर। हरीतिमा-हरियाली।

4. चटका तस्य सहर्ष स्वागतं करोति। सर्वं च अवगम्य कथयति- “भ्षातः! चिन्तां मा कुरु। अहं सर्वम् अवगच्छामि। अहं तव प्रतीक्षायाम् आसम्। अन्तः आगच्छतु।”
काक: लज्जित: भवति। चटका पुनः कथयति- “भ्रातः। चिन्तां त्यजतु। आनन्देन भोजनं करोतु। वर्षापर्यन्तम् आवां मिलित्वा अत्र स्थास्यावः। स्वागतं तव। भोजनं करोतु।”

हिन्दी अनुवाद –
चिड़िया उसका खुशी के साथ स्वागत करती है। और सब कुछ जानकर कहती है-“ हे भाई! चिन्ता मत करो। मैं सब जानती हूँ। मैं तुम्हारी प्रतीक्षा में थी। अन्दर आओ।”
कौआ लज्जित हो जाता है। चिड़िया फिर कहती है-” हे भाई! चिन्ता को छोड़ो। प्रसन्नता से भोजन करो। वर्षा तक हम दोनों मिलकर यहाँ रहेंगे। तुम्हारा स्वागत है। भोजन करो।”
शब्दार्था: – अवगम्य-जानकर। अन्तः-अंदर।

5. लज्जितः काक: भोजनं करोति। सः चिन्तयति- “अहं तु स्वार्थी अस्मि परम् एषा उदारहुदया अस्ति।” वर्षाकालात् अनन्तरं काक: पुन: नवीनगृहस्य निर्माणं करोति। चटका अपि साहाय्यं करोति। उभौ मिलित्वा सुखेन वसतः।
सत्यम् एव कथितम्- “उदारचरितानां तु वसुधैव कुटुम्बकम्।”

हिन्दी अनुवाद –
लज्जित (शर्मिदा) कौआ भोजन करता है। वह सोचता है-‘मैं तो स्वार्थी हूँ परन्तु यह उदारहदय वाली है।’
वर्षा के समय के बाद कौआ फिर नये घर का निर्माण करता है। चिड़िया भी सहायता करती है। दोनों मिलकर सुख से रहने लगे (रहते हैं)।
सच ही कहा गया है- “उदारचरित्र वालों का तो पूरी धरती ही परिवार है।”

शब्दार्थाः – अनन्तरं-पश्चात्। साहाय्यं-सहायता। उभौ-दोनों। मिलित्वा-मिलकर। वसुधैव-पृथ्वी ही। कुटुम्बकम्-परिवार।

1. निम्नलिखितान् गद्यांशान् पडित्वा तेषाम् उत्तराणि चित्त्वा लिखत-

(क) एषः काकः अस्ति। एषा चटका अस्ति। एते द्वे मित्रे स्तः।
एकवा इतस्ततः परिभ्रम्य तौ एकस्मिन् वृक्षे निर्मितम् एकं सुन्दरं गृहम् अपश्यताम्। सुन्दरं गृहं दृष्ट्वा तौ अचिन्तयताम्- “किमर्थं न आवयोः अपि एतादृशं सुन्दरं गृहं भवेत्! अतः अधुना आवाम्। अपि एतादृशं सुन्दरं गृहं रचयिष्यावः।” इति चिन्तयित्वा स्वनिवासम् अगच्छताम्।

I. एकपदेन उत्तरत-

प्रश्न i.
काक: चटका च के स्त:?
(क) बन्धू
(ख) मित्रे
(ग) शत्रू
(घ) हिंसकौ
उत्तरम् :
(ख) मित्रे

प्रश्न ii.
तौ वृक्षे निर्मित किम् अपश्यताम्?
(क) भवनम्
(ख) कुटीरम्
(ग) प्रासादम्
(घ) गृहम्
उत्तरम् :
(घ) गृहम्

II. पूर्णवाक्येन उत्तरत-

i. सुन्द्र गृह दृष्ट्वा तौ किम् अचिन्तयताम्?
ii. एकदा इतस्ततः परिभ्रम्य तौ किम् अपश्यताम्?
उत्तरम् :
i. सुन्दरं गृहं दृष्ट्वा तौ अचिन्तयताम्- “किमर्थ न आवयो: अपि एतादृशं सुन्दरं गृहं भवेत्।”
ii. एकदा इतस्ततः परिभ्रम्य तौ एकस्मिन् वृक्षे निर्मितम् एकं सुन्दरं गृहम् अपश्यताम्।

III. भाषिक कार्यम्-

प्रश्न i.
अनुच्छेदे ‘तौ’ इति क्रियाया: कर्तृपद किम्?
(क) रचयिष्यावः
(ख) अस्ति
(ग) अपश्यताम्
(घ) भवेत्
उत्तरम् :
(ग) अपश्यताम्

प्रश्न ii.
‘एतादृशं सुन्दरं गृहम्’ अत्र विशेष्यपदं किम्?
(क) गृहम्
(ख) एतादृशं
(ग) सुन्दरं
(घ) सुन्दर:
उत्तरम् :
(क) गृहम्

प्रश्न iii.
‘गेहम्’ इति पदस्य क: पर्याय: अत्र प्रयुक्तः?
(क) सुन्दरम्
(ख) गृहम्
(ग) आवासम्
(घ) निवासम्
उत्तरम् :
(ख) गृहम्

प्रश्न iv.
‘इतस्ततः परिभ्रम्य तौ’। अत्र ‘तौ’ पदं काभ्याम् प्रयुक्तम्?
(क) काकाय वृक्षाय च
(ख) काकगृहाभ्याम्
(ग) काकचटकाभ्याम्
(घ) चटकावृक्षाभ्याम्
उत्तरम् :
(ग) काकचटकाभ्याम्

(ख) काकः वृक्षे मृत्तिकया सुन्दरं गृहं निर्मितवान्। चटका तृणै: स्वगृहं निर्मितवती। एकवा भीषणे ग्रीष्मकाले सर्वत्र शुष्कम् अभवत् सर्वे दुःखिनः आसन्। चटकायाः गृहम् अपि नष्टम् अभवत्। सा खिन्ना आसीत्। सा चिन्तयति-“किं करोमि?”

I. एकपदेन उत्तरत-

प्रश्न i.
काकः केन सुन्दरं गृह निर्मितवान्?
(क) पाषाणेन
(ख) लौहेन
(ग) मृत्तिकया
(घ) तृणेन
उत्तरम् :
(ग) मृत्तिकया

प्रश्न ii.
चटकायाः गृहं कदा नष्टम् अभवत्?
(क) शीतकाले
(ख) ग्रीष्मकाले
(ग) वर्षाकाले
(घ) वसन्त काले
उत्तरम् :
(ख) ग्रीष्मकाले

II. पूर्णवाक्येन उत्तरत-

i. एकदा भीषणे ग्रीष्मकाले किम् अभवत्?
ii. चटका काकं कि कथयति?
उत्तरम् :
i. एकदा भीषणे ग्रीष्मकाले सर्वत्र शुष्कम् अभवत्।
ii. चटका काकं कथयति-” भ्रातः! अस्मिन् भीषणे ग्रीष्मकाले मम गृहं नष्टम् अभवत्। सर्वत्र उष्णः अस्ति। महयम् स्वग्रहे शरणं यच्छ।”

III. भाषिक कार्यम्-

प्रश्न i.
‘निर्मितवती’ इत्यस्या: क्रियाया: कर्तृपद किम्?
(क) स्वगृहं
(ख) तृण्:
(ग) चटका
(घ) गृहम्
उत्तरम् :
(ग) चटका

प्रश्न ii.
‘सा खिन्ना आसीत्।’ इति वाक्ये ‘सा’ पद कस्यै आगतम्?
(क) चटकायै
(ख) काकाय
(ग) वृक्षाय
(घ) नीडाय
उत्तरम् :
(क) चटकायै

प्रश्न iii.
‘भीषणे ग्रीष्मकाले’ अनयो: पदयो: विशेषणं किम्?
(क) ग्रीष्मे
(ख) काले
(ग) भीषणे
(घ) ग्रीष्मकाले
उत्तरम् :
(ग) भीषणे

प्रश्न iv.
अनुच्छेदे ‘ताप:’ पदस्य क: पर्याय: आगतः?
(क) शीत:
(ख) उष्ण:
(ग) ग्रीष्म :
(घ) वर्षा
उत्तरम् :
(ख) उष्प:

(ग) काकः अभिमानी आसीत्। स: अकथयत्-गच्छ, गच्छ। अत्र स्थानं न अस्ति। कुत्रचित् अन्यत्र गच्छ। तव गृहं नष्टम्। अहं किं करवाणि। तत् श्रुत्वा खिन्ना चटका गच्छति। गच्छति काले ग्रीष्मकाल: समाप्तः। वर्षा ऋतुः च आगच्छत्। सर्वत्र हरीतिमा आसीत्। चटका नवीन गृहम् अरचयत्। तदैव सहसा अतिवृष्टि: अभवत्। काकस्य गृह नष्ट अभवत्। खिन्नः काक: शरणार्थं चटकायाः समीपं अगच्छत्।

I. एकपदेन उत्तरत-

प्रश्न i.
काक: कीदृशः आसीत्?
(क) अभिमानी
(ख) दयालुः
(ग) निर्दय :
(घ) कपटी
उत्तरम् :
(क) अभिमानी

प्रश्न ii.
चटका कीदृशं गृहम् अरचयत्?
(क) पुरातनं
(ख) प्राचीनं
(ग) नवीनं
(घ) सुन्दरं
उत्तरम् :
(ग) नवीनं

II. पूर्णवाक्येन उत्तरत-

i. खिन्नः काकः किम् अकरोत्?
ii. अभिमानी काकः चटकां किम् अकथयत्?
उत्तरम् :
i. खिन्न: काक: शरणार्थ चटकाया: समीपम् अगच्छत्।
ii. अभिमानी काक: चटकाम् अकथयत्-” गच्छ, गच्छ। अत्र स्थान नास्ति। कुत्रचिद् अन्यत्र गच्छ। तव गृहं नष्टम्। अहम् कि करवाणि।”

III. भाषिक कार्यम्-

प्रश्न i.
अनुच्छेदे ‘अनावृष्टिः’ इति पदस्य क: विपर्ययः प्रयुक्त:?
(क) वृष्टि:
(ख) सामान्य वृष्टि:
(ग) अल्पवृष्टि:
(घ) अतिवृष्टि:
उत्तरम् :
(घ) अतिवृष्टि:

प्रश्न ii.
‘खिन्ना चटका’ अत्र क: विशेष्य: प्रयुक्तः?
(क) खिन्ना
(ख) चटका
(ग) चटक:
(घ) खिन्न:
उत्तरम् :
(ख) चटका

प्रश्न iii.
‘खिन्ना चटका’ इति कर्तृपदस्य क्रियापदं किम्?
(क) गच्छति
(ख) पठति
(ग) करोति
(घ) चलति
उत्तरम् :
(क) गच्छति

प्रश्न iv.
‘दुःखी’ इत्यस्य पदस्य क: पर्यायः अनुच्छेदे आगतः?
(क) सुखी
(ख) कष्टयुक्तः
(ग) खिन्न :
(घ) प्रसन्न:
उत्तरम् :
(ग) खिन्न:

(घ) चटका तस्य सहर्ष स्वागतं करोति। सर्व च अवगम्य कथयति- “भ्रातः! चिन्तां मा कुरु। अहं सर्वम् अवगच्छामि। अहं तव प्रतीक्षायाम् आसम्। अन्तः आगच्छतु।” काकः लज्जितः भवति। चटका पुनः कथयति- “भ्रातः! चिन्तां त्यजतु। आनन्देन भोजनं करोतु। वर्षापर्यन्तम् आवां मिलित्वा अत्र स्थास्यावः। स्वागतं तव। भोजनं करोतु।”

I. एकपदेन उत्तरत-

प्रश्न i.
चटका केन पदेन काकं सम्बोधयति?
(क) पित:
(ख) मित्र
(ग) भ्रात:
(घ) बन्धो
उत्तरम् :
(ग) भ्रात:

प्रश्न ii.
चटका काकस्य किं करोति?
(क) स्वागतं
(ख) अपमानं
(ग) निरस्कारं
(घ) उपहासं
उत्तरम् :
(क) स्वागत

II. पूर्णवाक्येन उत्तरत-

i. चटका पुनः कि कथयति?
ii. चटका सर्वम् अवगम्य काकं किं कथयति?
उत्तरम् :
i. चटका पुनः कथयति-“ भ्रातः! चिन्तां त्यजतु। आनन्देन भोजनं करोतु। वर्षा पर्यन्तम् आवां मिलित्वा अत्र स्थास्यावः। स्वागतं तव। भोजनं करोतु।”
ii. चटका सर्वम् अवगम्य काकं कथयति-” भ्रातः! चिन्तां मा कुरु। अहं सर्वम् अवगच्छामि। अहं तव प्रतीक्षायाम् आसम्। अन्तः आगच्छतु।”

III. भाषिक कार्यम्-

प्रश्न i.
‘बहि:’ इति पदस्य क: विपर्यय: अनुच्छेदे लिखित:?
(क) सर्वम्
(ख) चिन्तां
(ग) अन्त:
(घ) स्वागतम्
उत्तरम् :
(ग) अन्त:

प्रश्न ii.
अनुच्छेदे ‘स्थास्याव:’ इति क्रियापदस्य कर्तृपदं किम्?
(क) त्वम्
(ख) आवाम्
(ग) वयम्
(घ) युवाम्
उत्तरम् :
(ख) आवाम्

iii. ‘अहं सर्वम् अवगच्छामि’ इदं वाक्यं क: कथयति?
(क) काक:
(ख) शुक:
(ग) बक:
(घ) चटका
उत्तरम् :
(घ) चटका

प्रश्न iv.
‘काक: लज्जितः’ अत्र विशेषणपदं किम्?
(क) लज्जितः
(ख) लड्जिजता
(ग) काकम्
(घ) काक:
उत्तरम् :
(क) लज्जित:

(ङ) लग्जितः काकः भोजनं करोति। स: चिन्तयति- “अहं तु स्वार्थी अस्मि परम् एषा उदारहद्धदा अस्ति।” वर्षाकालात् अनन्तरं काक: पुनः नवीनगृहस्य निर्माणं करोति। चटका अपि साहाय्यं करोति। उभौ मिलित्वा सुखेन वसतः।
सत्यम् एव कथितम्- “उदारचरितानां तु वसुधैव कुटुम्बकम्”

प्रश्नाः
I. एकपदेन उत्तरत-

प्रश्न i.
क: भोजनं करोति?
(क) चटका
(ख) शुक:
(ग) काक:
(घ) लज्जित:
उत्तरम् :
(ग) काक:

प्रश्न ii.
उदारचरितानां जनानां कुटुम्बकम् कि भवति?
(क) वसुधैव
(ख) वसुधा
(ग) एव
(घ) धरा
उत्तरम् :
(ख) वसुधा

II. पूर्णवाक्येन उत्तरत-

i. काक: कि चिन्तयति?
ii. वर्षाकालात् अनन्तर काक: कि करोति?
उत्तरम् :
i. काक: चिन्तयति- “अहं तु स्वार्थी अस्मि परम् एषा उदारहुदया अस्ति।”
ii. वर्षाकालात् अनन्तरं काकः पुनः नवीनगृहस्य निर्माणं करोति।

III. भाषिक कार्यम्-

प्रश्न i.
अनुच्छेदे ‘उभौ’ इति कर्तृपदस्य क्रियापदं किम्?
(क) मिलित्वा
(ख) वसत:
(ग) सुखम्
(घ) सुखेन
उत्तरम् :
(ख) वसत:

प्रश्न ii.
‘लज्जितः काक: भोजनं करोति।’ अत्र विशेषणपद किम्?
(क) भोजनं
(ख) काक:
(ग) करोति
(घ) लज्जित:
उत्तरम् :
(घ) लज्जित:

प्रश्न iii.
‘परोपकारी’ पदस्य क: विपर्यय: अनुच्छेदे आगतः?
(क) स्वार्थी
(ख) उदारहदया
(ग) चटका
(घ) उदार:
उत्तरम् :
(क) स्वार्थी

प्रश्न iv.
‘अहं तु स्वार्थी अस्मि’। अत्र ‘अहम्’ पदं कस्मै प्रयुक्तम्?
(क) चटकायै
(ख) शुकाय
(ग) काकाय
(घ) हंसाय
उत्तरम् :
(ग) काकाय

2. निम्न वाक्यस्य भावं मज्जूषायाः समुचितैः पदैः सम्पूरियत्वा लिखत –

‘उदार चरितानां तु वसुधैव कुटुम्बकम्।’ अस्य भावोऽस्ति यत्-अस्मिन् संसारे ये जना: ……i…… भवन्ति तेषां कृते सम्मूर्णः संसारः एव …….ii…… भवति। ते केनचिदि ……iii…… सह कदापि iv……. न कुर्वन्ति; यतः सम्पूर्णः संसारः तेषाम् पारिवारिकः जनः कथ्यते।
मज्जूषा-परिवार:, द्वेष, उदारचरिता:, जनेन
उत्तराणि :
i. उदारचरिताः
ii. परिवारः
iii. जनेन
iv. द्वेष।

3. निम्न वाक्यस्य समुचितं भावपूर्ण वाक्यं चित्त्वा लिखत’उदारचरितानां तु वसुधैव कुटुम्बकम्’।

i. उदारहदय सम्पन्नाः जनाः सम्पूर्णां धरां स्व एव मन्यन्ते।
ii. उदारचरिताः जनाः सम्पूर्णा धरां स्वपरिवारमिव मन्यन्ते।
iii. उदारहदययाः जनाः धरां स्वपरिवारं न मन्यन्ते।
उत्तराणि :
ii. उदारचरिताः जनाः सम्पूर्णां धरां स्वपरिवारमिव मन्यन्ते।

4. निम्न रेखाड्कितानां पदानां स्थाने प्रश्नवाचकं पदं लिखित्वा वाक्यं पुनर्लिखत-

i. एका चटका अस्ति।
ii. तौ एकस्मिन् वृक्षे निर्मितम् एकं सुन्दरं गृहम् अपश्यताम्
iii. काक: वृक्षे मृत्तिकया सुन्दरं गृहं निर्मितवान्।
iv. सर्वे दुःखिनः आसन्।
v. चटका तृणै: स्वगृहं निर्मितवती।
vi. चटकायाः गृहम् अपि नष्टम् अभवत्।
vii. चटका चिन्तयित्वा काकस्य गृहं गच्छति?
viii. मह्यम् स्वगृहे शरणं यच्छ।
ix. काकस्य गृहं मृत्तिकाया: आसीत्।
x. आवयो: अपि एतादृशं सुन्दरं गृहं भवेत्।
xi. काक: अभिमानी आसीत्।
xii. तव गृहम् नष्टम्।
xiii. तत् श्रुत्वा खिन्ना उटका गच्छति।
xiv. गच्छति काले ग्रीष्मकालः समाप्तः।
xv. खिन्न: काक: शरणार्थं चटकाया: समीपम् आगच्छत्।
xvi. अहं तव प्रतीक्षायाम् आसम्।
xvii. आनन्देन भोजनं करोतु।
xviii. अहं तु स्वार्थी अस्मि।
xix. काक: पुन: नवीनगृहस्य निर्माणं करोति।
xx. परम् एषा उदारहृदया अस्ति।
उत्तराणि :
i. एका का अस्ति?
ii. तौ कुत्र/कस्मिन् निर्मितम् एकं सुन्दरं गृहम् अपश्यताम्?
iii. काक: वृक्षे कया सुन्दरं गृहं निर्मितवान्?
iv. सर्वे कीदृशा: आसन्?
v. चटका तृणै: किम् निर्मितवती?
vi. कस्या: गृहम् अपि नष्टम् अभवत्?
vii. का चिन्तयित्वा काकस्य गृहं गच्छति?
viii. कस्मै स्वगृहे शरणं यच्छ?
ix. काकस्य गृहं कस्या: आसीत्?
x. कयो: अपि एतादृशं सुन्दरं गृहं भवेत्?
xi. काक: कीदृशः आसीत्?
xii. कस्य गृहम् नष्टम्?
xiii. तत् श्रुत्वा कीदृशी चटका गच्छति?
xiv. कदा ग्रीष्मकालः समाप्तः।
xv. खिन्न: काक: किमर्थं चटकाया: समीपम् आगच्छत्?
xvi. अहं तव कस्याम् आसम्?
xvii. आनन्देन किं करोतु?
xviii. अहं तु कीदृशः अस्मि?
xix. क: पुन: नवीनगृहस्य निर्माणं करोति?
xx. परम् एषा कीदृशी अस्ति?

5. निम्नवाक्यानि पठित्वा कथाक्रमानुसारेण पुन: संयोजत-

(क) i. एकदा भीषणे ग्रीष्मकाले चटकायाः गृहम् नष्टम् अभवत्।
ii. चटका काकस्य स्वागत कृत्वा भोजन यच्छति।
iii. काकस्य गृहं गत्वा चटका शरणं याचति।
iv. एका चटका एक: काकश्च परस्परं मित्रे आस्ताम्।
v. काकस्य गृहमपि वर्षायां नष्टम् अभवत्।
उत्तराणि :
i. एका चटका एक: काकश्च परस्परं मित्रे आस्ताम्।
ii. एकदा भीषणे ग्रीष्मकाले चटकाया: गृहम् नष्टम् अभवत्।
iii. काकस्य गृहं गत्वा चटका शरणं याचति।
iv. काकस्य गृहमपि वर्षायां नष्टम् अभवत्।
v. चटका काकस्य स्वागत कृत्वा भोजनं यच्छति।

(ख) i. चटका काकस्य स्वागतं प्रसन्नतया करोति।
ii. एकदा चटका काक: च द्वे मित्रे आस्ताम्।
iii. चटकाया: गृहम् तृणानाम् आसीत्।
iv. काक: लज्जित: भवति।
v. काक: चटकायाः अपमान कृत्वा तां बहि: करोति।
उत्तराणि :
i. एकदा चटका काक: च द्वे मित्रे आस्ताम्।
ii. चटकाया: गृहम् तृणानाम् आसीत्।
iii. काकः चटकायाः अपमानं कृत्वा तां बहिः करोति।
iv. चटका काकस्य स्वागतं प्रसन्नतया करोति।
v. काक: लज्जित: भवति।

(ग) i. वर्षायां काकस्य गृहं नष्टम् अभवत्।
ii. तौ परिश्रमन् एकं सुन्दरं गृहम् अपश्यताम्।
iii. एकदा भीषणे ग्रीष्मकाले चटकायाः गृहं नष्टम् अभवत्।
iv. एक: चटका एक: काकः च परस्परं मित्रे अस्ताम्।
v. काकस्य गृहं मृत्तिकाया: चटकायाश्च गृह तृणानाम् आस्ताम्।
उत्तराणि :
i. एक: चटका एक: काक: च परस्पर मित्रे अस्ताम्।
ii. तौ परिभ्रमन् एक सुन्दर गृहम् अपश्यताम्।
iii. काकस्य गृहं मृत्तिकाया: चटकायाश्च गृह तृणानाम् आस्ताम्।
iv. एकदा भीषणे ग्रीष्मकाले चटकायाः गृहं नष्टम् अभवत्।
v. वर्षायां काकस्य गृहं नष्टम् अभवत्।

(घ) i. काक: स्वार्थी तथा चटका परोपकारी आस्ताम्।
ii. चटका काकस्य गृह-निर्माणे तस्य सहायतां करोति।
iii. काक: स्वगृह मृत्तिकया अरचयत्।
iv. चटका सहायतां याचितुं काकस्य समीपे गच्छति।
v. अतः तद्गृहं वर्षा-काले नष्टम् अभवत्।
उत्तराणि :
i. चटका सहायतां याचितुं काकस्य समीपे गच्छति।
ii. काक: स्वगृहं मृत्तिकया अरचयत्।
iii. अतः तद्गृहं वर्षा-काले नष्टम् अभवत्।
iv. काक: स्वार्थी तथा चटका परोपकारी आस्ताम्।
v. चटका काकस्य गृह-निर्माणे तस्य सहायतां करोति।

(ङ) i. एकदा भीषण ग्रीष्मकाले चटकायाः गृहम् अनश्यत्।
ii. काकस्य गृह वर्षाकाले नष्टं भवति अतः स: शरणाय चटकाया: समीपे गच्छति।
iii. चटकाकाकौ परस्परं मित्रे अभवताम्।
iv. चटका काकं शरणं याचति पर सः तस्याः अपमानं करोति।
v. चटका तस्य स्वागतं कृत्वा तस्मै भोजनं यच्छति।
उत्तराणि :
i. चटकाकाकौ परस्परं मित्रे अभवताम्।
ii. एकदा भीषण ग्रीष्मकाले चटकाया: गृहम् अनश्यत्।
iii. चटका काकं शरणं याचति पर स: तस्या: अपमानं करोति।
iv. काकस्य गृहं वर्षाकाले नष्टं भवति अतः सः शरणाय चटकाया: समीपे गच्छति।
v. चटका तस्य स्वागतं कृत्वा तस्मै भोजनं यच्छति।

6. निम्नपदानां समुचितं मेलनम् उचितेन पदेन सह कृत्वा लिखत-

पदानिअर्था:
1. खिन्ना(क) विशालहृदययुक्ता
2. नष्टम्(ख) धरा
3. अभिमानी(ग) दुःखिता
4. मित्रे(घ) पश्चात्
5. वृक्षे(ङ) सखायौ
6. गृहम्(च) परिवारम्
7. निवासम्(छ) अन्यस्मिन् स्थाने
8. दृष्ट्वा(ज) अहंकारी
9. अन्यत्र(झ) सहायताम्
10. समीपम्(ञ) अतिवर्षा
11. अतिवृष्टि:(ट) तरौ
12. साहाय्यम्(ठ) अवलोक्य
13. वसुधा(ङ) गेहम्
14. उदारह्रदया(ढ) पार्श्व
15. कुटुम्बकम्(ण) आवासम्
16. अनन्तरम्(त) समाप्तम्

उत्तराणि :

पदानिअर्था:
1. खिन्ना(ग) दुःखिता
2. नष्टम्(त) समाप्तम्
3. अभिमानी(ज) अहंकारी
4. मित्रे(ङ) सखायौ
5. वृक्षे(ट) तरौ
6. गृहम्(ङ) गेहम्
7. निवासम्(ण) आवासम्
8. दृष्ट्वा(ठ) अवलोक्य
9. अन्यत्र(छ) अन्यस्मिन् स्थाने
10. समीपम्(ढ) पार्श्व
11. अतिवृष्टि:(ञ) अतिवर्षा
12. साहाय्यम्(झ) सहायताम्
13. वसुधा(ख) धरा
14. उदारह्रदया(क) विशालहृदययुक्ता
15. कुटुम्बकम्(च) परिवारम्
16. अनन्तरम्(घ) पश्चात्

1 thought on “DAV Class 8 Sanskrit Chapter 2 वसुघैव कुठुम्बकम्‌ Solutions”

Leave a Reply